English Translation: https://bhaskaraprakasha.org/amritananda-swamigal-english
श्री अमृतानन्द सरस्वती स्वामी
कामकोटि निलय - वाराणसी
नारायणः श्रीगुरुभ्यो नमः । शिवाय गुरवे नमः ।
कञ्चित्कालम् उमामहेश भवतः पादारविन्दार्चनैः
कञ्चिद् ध्यानसमाधिभिश्च नतिभिः कञ्चित्कथाकर्णनैः।
कञ्चित् किञ्चिदवेक्षणैश्च नुतिभिः कञ्चिद्दशामीदृशीम्
यः प्राप्नोति मुदा त्वदर्पित मना: जीवन् स मुक्त: खलु ॥
श्रीगुरुभ्यो नमः। शिवाय गुरवे नमः। श्री साम्बसदाशिव परब्रह्मणे नमः।
लोके भगवान् शिवः महेश्वरः विश्वनाथः प्रणतार्तिहा आशुतोषी सर्वैरेव जनैः सर्वदा सम्पूज्योऽस्ति। स एक एव योग्यायोग्यविचारणां विना सर्वान् समनुगृह्णाति। सः केवलं ध्यानमात्रेणापि अत्यन्तं तुष्टो भवति। तादृशः सन्तुष्ट: भगवान् नान्यत्र दृश्यते। तादृशः सर्वैरेव जनैः पूज्यः। लोके सर्वे जनाः क्लिश्यन्ति पुनः पुनः
"पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम्"
इति सर्वदैव एवमेव कुर्वन्ति। तादृशजनानां जन्ममरणादि दुःखं कथं निस्सरति इत्युक्तौ जननमृतियुतानां सेवया देवतानां
न भवति सुखलेशः संशयो नास्ति तत्र।
अजनिममृतरूपं साम्बमीशं भजन्ते य
इह परम सौख्यं ते हि धन्या लभन्ते॥
अतः धन्या एव एतादृशं धन्यत्वं लभन्ते । अतः सर्वदैव भगवान् पूज्यः। तस्य भगवतः शिवस्य स्वरूपं किम्?
नो ते गोत्रं नापि जन्मापि नाख्या नो वा रूपं नैव शीलं न देशः।
इत्थंभूतोऽपीश्वरस्त्वं त्रिलोक्याः सर्वान् कामान् पूरयेः तद् भजे त्वाम्॥
एतादृशं स्वरूपमस्ति सर्वकामप्रपूरकोऽस्ति परब्रह्मस्वरूप एव विद्यते।
अतः सर्वदैव स एव नन्तव्यः, सर्वैः सर्वदैव स एव मन्तव्यः, सर्वेऽव स एव नित्यः।
त्वत्तः सर्व: त्वं हि सर्वं स्मरारे, त्वं गौरीश: त्वं च नग्नोऽसि शान्तः।
त्वं वै वृद्धस्त्वं युवा त्वं च बाल:, तत् किं यत्तन्नास्ति अतस्त्वान्नतोऽस्मि॥
त्वं कीदृशो नासि? त्वमेव सर्वमसि। अतः त्वमेव सर्वदा सर्वैः पूज्योऽसि।
इत्येवं सर्वैः उपासकैः अयमेव पूज्यः इति -
उपासकानां यदुपासनीयम् उपात्तवासं वटशाखिमूले।
तद्धाम दाक्षिण्य दिषास्त्वमूर्त्या जागर्तु चित्ते बहुबोधरूपम्॥
स दक्षिणामूर्तिरूपेण स एव सर्वेषाम् अज्ञानं नाशयति इति हेतोः स एव सर्वैः सर्वदा स्मर्तव्यः इति। एवमेव आचार्यपादैः सर्वदैव उच्यते -
प्रातर्भजामि मनसो वचसोऽनुगम्यम् वाचो विभान्ति निखिला यदनुग्रहेण।
यन्नेतिनेतिवचनैर्निगमा अवोचन् तं देवदेवमजमच्युतमाहुरग्र्यम्॥
इत्यादि श्लोकेषु तदेव पुनः पुनः सर्वैरेव उच्यते। अतः एतादृशः भगवान् सर्वैः सर्वदैव स्मर्तव्यः, स एव चिन्तनीयः। अत एव अन्यत्र दण्डकादिषु एवमेव स्थितिर्वर्ण्यते –
"श्रीशैलादिकृतनिषेवण कैलासशिखरभूषण तत्वार्थगोचर चन्द्रार्धशेखर पाशायुध कुलाद्र्यतिस्मितापाङ्ग कोपारुणकटाक्षभस्मितानङ्ग सस्मितापाङ्ग ऊरीकृतविभूतिदिव्याङ्ग रागगौरीकृतपरिगृहीत सव्याङ्गभावाङ्गारुषङ्ग पाविता नरास्थिदेशगङ्गातरङ्ग भासित जटाप्रदेश वन्दनाभिरत आखण्डलस्यन्दनायित भूमण्डल आश्रितपददासा तापसकदम्ब चक्रीकृतार्क शीतकर बिम्ब” इत्यादिना तस्यैव वर्णनं क्रियते।
तादृशस्य भगवतः शिवस्य पूजा सर्वदैव सर्वैः कर्तव्या इति हेतोः भास्करप्रकाशाश्रमस्थैः महात्मभिः परम्पराशुद्धैः "सद्योजातविधान शिवपूजा" एका सुविनिर्मिता विद्यते। यत्र च ग्रन्थे सर्वस्वमस्ति पूजायाः। तत्र सर्वप्रथमं गुरुस्तुतिरस्ति। तत्र पूर्वाङ्गपूजादिकं विस्तृततया लिखितमस्ति। यत्र सङ्कल्पादारभ्य कलशपूजा, शक्तिषडङ्गन्यासादिकं, श्रीकण्ठ मातृकान्यासादिकं, शिवपञ्चाक्षरमन्त्रादिकं च अत्र विद्यते। महन्न्यासस्य प्रामाणिकः पाठः तत्र उपलभ्यते। सर्वप्रामाणिकः पाठः अत्र उपलभ्यते। शैवपीठपूजा विद्यते, आवाहनादिकमस्ति। तथा सद्योजातविधान षोडशोपचार पूजाप्यत्र विराजते। अभिषेकमन्त्राः अत्र राराजन्ते। अनेकेषां मन्त्राणां सङ्ग्रहः अत्र विद्यते। शिवोपासनामन्त्राः विद्यन्ते। शिवाष्टोत्तर-शिवाथर्वशीर्ष-नन्दिकेश्वरपूजादिकं बलिप्रदानादिकं च अत्र अस्तीति महान् प्रामाणिकः अयं ग्रन्थः सर्वैरेव सर्वदा सेव्यः, सर्वैरेव सर्वदा ध्यातव्यश्च ग्रन्थः अत्र विद्यते इति हेतोः अयं अवश्यं सर्वैः धर्तव्यः विद्यते। सर्वो लोकः अनेन ग्रन्थेन उपकुर्यात् इत्येवं विचिन्तयामहे।
एवं भास्करप्रकाशाश्रमस्थानां महान्तं परिश्रमं उपलक्ष्य मदीयं मनः अत्यन्तं प्रसन्नतामेति। तत्र विद्यमानाः सर्वेऽपि आहिताग्नयः संन्यासिनः महती परम्परा विद्यते। विमर्शनन्दनाथाः, प्रकाशानन्दनाथाः, रामानन्दनाथाः इत्येवं परम्परा महती परम्परा विस्तृता विद्यते। तामेतां परम्परां स्मारं स्मारं मोमुद्यते नश्चेतः। अतः एषां परिश्रमः सफलो भूयात्। इमे आश्रमस्थाः ज्ञानप्रकाशआश्रमस्थाः पुनः पुनः एतादृशान् ग्रन्थान् अनेकान् एवं निर्माय लोकार्थं प्रकाशयेयुः इति च भगवन्तं उमाजानिम् अवश्यं अहं सम्प्रार्थये। नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण।
वामार्धविद्युत्प्रतिमप्रभाय, वाचामनःकर्मविमोचनाय।
वागीश्वरीसूक्ष्मवराय नित्यं, तस्मै वकाराय नमः शिवाय॥
इत्येवं भगवन्तं पुनः पुनः सम्प्रार्थये इति शम्।
नारायण नारायण नारायण।